12 वाँ अध्याय / Geeta Chapter-12 एकल गायन में पूरा अध्याय पाठ Complete chapter recitation in solo audio उच्चारण के विवरण के साथ श्लोकों के पृथक गायन Shlok wise audio with details of pronouciation अनुपठन / Lead and Follow Recitation संपूर्ण अध्याय - उच्चारण के विवरण के साथ Complete Chapter text with common mistakes and rules for recitation. श्लोकों के अर्थ / Meaning of Shlokas वसुदेवसुतं(न्) देवं(ङ्), कंसचाणूरमर्दनम्। देवकीपरमानन्दं(ङ्), कृष्णं(म्) वन्दे जगद्गुरुम्।। ॐ श्रीपरमात्मने नम: श्रीमद्भगवद्गीता अथ द्वादशोऽध्याय:अर्जुन उवाच एवं(म्) सततयुक्ता ये, भक्तास्त्वां(म्) पर्युपासते| ये चाप्यक्षरमव्यक्तं (न्), तेषां(ङ्) के योगवित्तमाः||1||श्रीभगवानुवाच मय्यावेश्य मनो ये मां(न्), नित्ययुक्ता उपासते| श्रद्धया परयोपेता:(स्), ते मे युक्ततमा मताः||2||ये त्वक्षरमनिर्देश्यम्, अव्यक्तं(म्) पर्युपासते| सर्वत्रगमचिन्त्यं(ञ्) च, कूटस्थमचलं(न्) ध्रुवम्||3||सन्नियम्येन्द्रियग्रामं(म्), सर्वत्र समबुद्धयः| ते प्राप्नुवन्ति मामेव, सर्वभूतहिते रताः||4||क्लेशोऽधिकतरस्तेषाम्, अव्यक्तासक्तचेतसाम्| अव्यक्ता हि गतिर्दुःखं(न्), देहवद्भिरवाप्यते||5||ये तु सर्वाणि कर्माणि, मयि सन्न्यस्य मत्पराः| अनन्येनैव योगेन, मां(न्) ध्यायन्त उपासते||6||तेषामहं(म्) समुद्धर्ता, मृत्युसंसारसागरात्| भवामि नचिरात्पार्थ, मय्यावेशितचेतसाम्||7||मय्येव मन आधत्स्व, मयि बुद्धिं(न्) निवेशय| निवसिष्यसि मय्येव, अत ऊर्ध्वं(न्) न संशयः||8||अथ चित्तं(म्) समाधातुं(न्), न शक्नोषि मयि स्थिरम्| अभ्यासयोगेन ततो, मामिच्छाप्तुं(न्) धनञ्जय||9||अभ्यासेऽप्यसमर्थोऽसि, मत्कर्मपरमो भव| मदर्थमपि कर्माणि, कुर्वन्सिद्धिमवाप्स्यसि||10||अथैतदप्यशक्तोऽसि, कर्तुं(म्) मद्योगमाश्रितः| सर्वकर्मफलत्यागं(न्), ततः(ख्) कुरु यतात्मवान्||11||श्रेयो हि ज्ञानमभ्यासाज्, ज्ञानाद्ध्यानं(म्) विशिष्यते| ध्यानात्कर्मफलत्यागः(स्),त्यागाच्छान्तिरनन्तरम्||12||अद्वेष्टा सर्वभूतानां(म्), मैत्रः(ख्) करुण एव च| निर्ममो निरहङ्कारः(स्), समदुःखसुखः क्षमी||13||सन्तुष्टः(स्) सततं(म्) योगी, यतात्मा दृढनिश्चयः| मय्यर्पितमनोबुद्धि:(र्), यो मद्भक्तः(स्) स मे प्रियः||14||यस्मान्नोद्विजते लोको, लोकान्नोद्विजते च यः| हर्षामर्षभयोद्वेगै:(र्), मुक्तो यः(स्) स च मे प्रियः||15||अनपेक्षः(श्) शुचिर्दक्ष, उदासीनो गतव्यथः| सर्वारम्भपरित्यागी, यो मद्भक्तः(स्) स मे प्रियः||16||यो न हृष्यति न द्वेष्टि, न शोचति न काङ्क्षति| शुभाशुभपरित्यागी, भक्तिमान्यः(स्) स मे प्रियः||17||समः(श्) शत्रौ च मित्रे च, तथा मानापमानयोः| शीतोष्णसुखदुःखेषु, समः(स्) सङ्गविवर्जितः||18||तुल्यनिन्दास्तुतिर्मौनी, सन्तुष्टो येन केनचित्| अनिकेतः(स्) स्थिरमति:(र्), भक्तिमान्मे प्रियो नरः||19||ये तु धर्म्यामृतमिदं(म्), यथोक्तं(म्) पर्युपासते| श्रद्दधाना मत्परमा, भक्तास्तेऽतीव मे प्रियाः||20||ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां(म्) योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्याय:।। ||ॐ श्रीकृष्णार्पणमस्तु || योगेशं(म्) सच्चिदानन्दं(म्) वासुदेवं(म्) व्रजप्रियम्। धर्मसंस्थापकं(म्) वीरं(ङ्) कृष्णं(म्) वन्दे जगद्गुरुम्।। Previous Next